मंगलाचरण
ॐ श्री गुरूभ्यो नम।
ॐ श्री मन्महागणपतये नमः। लक्ष्मी नारायणभ्यां नमः। उमा महेश्वराभयाम् नमः । वाणी हिरण्यगर्भाभ्यां नमः। शची पुरन्दराभ्यां नमः। मातृपितृ चरणकमलेभ्यो नमः। इष्टदेवताभ्यो नमः। कुलदेवताभ्यो नमः। सर्वेभ्यो देवेभ्यो नमः। सर्वेभ्यो ब्राह्मणेभ्यो नमः।
ॐ करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् ।
कालिकां दक्षिणां दिव्यां मुण्डमालाविभूषिताम् ॥
कालिकां दक्षिणां दिव्यां मुण्डमालाविभूषिताम् ॥
सद्यश्छिन्नशिरःखड्गवामोर्ध्वाधःकराम्बुजाम् ।
अभयं वरदं चैव दक्षिणाधोर्ध्वपाणिकाम् ॥
अभयं वरदं चैव दक्षिणाधोर्ध्वपाणिकाम् ॥
महामेघप्रभां श्यामां तथा चैव दिगम्बराम् ।
कण्ठावसक्तमुण्डालीगलद्रुधिरचर्चिताम् ॥
कण्ठावसक्तमुण्डालीगलद्रुधिरचर्चिताम् ॥
कर्णावतंसतानीतशवयुग्मभयानकाम् ।
घोरदंष्ट्राकरालास्यां पीनोन्नतपयोधराम् ॥
घोरदंष्ट्राकरालास्यां पीनोन्नतपयोधराम् ॥
शवानां करसङ्घातैः कृतकाञ्चीं हसन्मुखीम् ।
सृक्कद्वयगलद्रक्तधाराविस्फुरिताननाम् ॥
सृक्कद्वयगलद्रक्तधाराविस्फुरिताननाम् ॥
घोररूपां महारौद्रीं श्मशानालयवासिनीम् ।
दन्तुरां दक्षिणव्यापिमुक्तलम्बकचोच्चयाम् ॥
दन्तुरां दक्षिणव्यापिमुक्तलम्बकचोच्चयाम् ॥
शवरूपमहादेवहृदयोपरि संस्थिताम् ।
शिवाभिर्घोररूपाभिश्चतुर्द्दिक्षु समन्विताम् ॥
शिवाभिर्घोररूपाभिश्चतुर्द्दिक्षु समन्विताम् ॥
महाकालेन सार्द्धोर्द्धमुपविष्टरतातुराम् ।
सुखप्रसन्नवदनां स्मेराननसरोरुहाम् ॥
सुखप्रसन्नवदनां स्मेराननसरोरुहाम् ॥
एवं सङ्चिन्तयेद्देवीं श्मशानालयवासिनीम् ॥
कालिका के चरणों में अर्पित।
No comments:
Post a Comment
Note: only a member of this blog may post a comment.